Ø सारांशः (Abstract) -:
“भारतीयवाङ्मयस्य सर्वतोप्राचीनज्ञाननिधिरूपेण वेदानामपौरुषेयत्वं पौरुषायते लोके। जगतः कल्याणाय
पर्जन्यकामनया च यज्ञकर्मणां सम्पादनमनिवार्यमिति मत्वा वेदापदिष्टमार्गेण यज्ञकर्मसम्पादनाय कालशुद्धिः
(मुहूर्त्तज्ञानम्) नितरामपेक्षतेति कारणात् ऋषिभिः स्कन्धत्रयात्मकस्य ज्योतिश्शास्त्रस्य
वेदाङ्गरूपेण निर्वचनं कृतम्।
अथ च सृष्ट्यादेः अद्यावधि व्यतीतकालस्य कलनमपि अनेन शास्त्रेण
संभाव्यते । तदनुसारेण ज्योतिषग्रन्थानां
युग-महायुग-मन्वन्तर-कल्पादिव्यवस्थापुरस्सरं कालगणनारीतिरत्र प्रदर्शिता।“
सर्वेष्वपि
प्राच्यज्योतिषग्रन्थेषु प्राथम्येन वर्ण्यविषयो विद्यते कलनात्मकः।
कलनं नाम गणनम्। कलयति इति “कालः” इत्यनया व्युत्पत्त्या कालचिन्तनं क्रियते । कालस्य द्वैविध्यं समीचीनतया सूर्यसिद्धान्ते
प्राप्यते। तन्मतेन कालो हि “लोकानामन्तकृत्कालः कालोऽन्यः कलनात्मकः। स
द्विधा स्थूलसूक्ष्मत्वान्मूर्तश्चामूर्त उच्यते3 इत्यनया रीत्या द्विधा वर्णितः। प्रथमः कालः सकलभुवनभूतानां संहारकोऽखण्डदण्डायमानः
शास्त्रान्तरप्रमाणसिद्धः लोकानामुपलक्षणादचेतनानामपि अन्तकृद्विनाशकः कालः
महाकालः। तत्र च ''कालः सृजति भूतानि
कालः संहरति प्रजाः'' ''कालः पचति भूतानि सर्वाण्येव सहात्मना'' इत्यादीनि शास्त्रान्तरप्रमाणान्यपि लभ्यन्ते।
अयं कालः साक्षात् परब्रह्मवाचकः। भगवद्गीतायां कालः ईश्वरत्वेन प्रतिपादितः -
कालोऽस्मि
लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः ।
ऋतेऽपि
त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः।।4
अपरः कालः
कलनात्मको गणनात्मको वा लोकैर्ज्ञातुं योग्यः खण्डकालेति कथ्यते। पुनश्चासौ
गणनात्मको कालोऽपि स्थूलसूक्ष्मत्वान्महत्त्वाणुत्त्वभेदाभ्यां द्विधा।
तत्र च स्थूलकालः मूर्तः सूक्ष्मकालश्चाऽमूर्तसंज्ञकः। यथा च -
प्राणादिः कथितो
मूर्तस्त्रुट्याद्योऽमूर्तसंज्ञकः।
षड्भिः प्राणैर्विनाडी स्यात् तत्षष्ट्या
नाडिका स्मृता ।।5
नाडी षष्ट्या तु नाक्षत्रमहोरात्रं
प्रकीर्तितम्।
तत्त्रिंशता भवेन्मासः सावनोऽर्कोदयैस्तथा ।।6
अत्र कालस्य द्वैविध्यं दृश्यते
सूर्यसिद्धान्ते। तथैव सिद्धान्तत्वविवेकेऽपि कमलाकरभट्टेन वर्णितम्।7
तत्स्पष्टमभिधातुमधोलिखितरीत्या वर्गीकरणं द्रष्टव्यम् –
1. प्राणादिकालः
–
तत्रादौ प्राणादिकालस्य परिभाषायां कथ्यते
यत् ''सुखासीनस्वस्थपुरुषस्य
एकश्वासोच्छ्वासान्तर्वर्त्ती कालः (असुः) स एव “अव्याहतदशगुर्वक्षरोच्चारणकालसमः” भवति स एको प्राणः
कथितः। गुर्वक्षरैः खेन्दुमितैरसु8 रित्यनेन प्राण एव
असुः, दण्डः, पलात्मको वक्ष्यमाणः
मूर्तः प्राणादिकालः इति भास्कराचार्यः वर्णयामास। यथा -
6 प्राणाः
= 1 विनाडी
60 विनाड्यः = 1 नाडी
60 नाड्यः = 1 नाक्षत्रमहोरात्रम्
30 ना. अहोरात्राणि = 1 मासः (सावनः )
कमलाकरभट्टस्यमतमपि
एतत्सममेव। तन्मतेन द्युरात्रवृत्ते चक्रकला असवः भवन्ति।9 एवं
हि आर्यभटेन निगदितं यत् यावता कालेन पुरुषः षडुच्छ्वासान्करोति तावता एको प्राण
इति।10 सिद्धान्ततत्त्वविवेकेऽपि
सूर्यसिद्धान्तीयकालभेदानां समर्थनं कमलाकरेण कृतम्।11 एतदनुसारेण वर्तमानकैः कालज्ञै
यदि प्राक्पाश्चात्यकालमानानां तुलना क्रियते चेत् दिनमासवर्षादीनां गणनाक्रमः
वैज्ञानिकरीत्या ज्ञातुं प्रभवामः। तदेवात्र वर्ण्यते -
भारतीयकालः पाश्चात्यकालः
1 प्राणः (असुः) = 10 दीर्घाक्षरोच्चारणकालः = 10 विपलानि= 4 सेकेण्ड
1 पलम् (विघटी) = 6 प्राणाः = 60 विपलानि =24से.=
1 विपल = 1 दीर्घक्षरोच्चारणकालः =
प्राणः ÷ 10 =
सेकेण्ड
1 नाड़ी (घटी) = 60 पलानि = 1 दण्डः = 24 मिनट
1 नाक्षत्राहोरात्रम् = 60 नाड्यः = 60 दण्डाः = 24 घण्टा
1 मासः = 30 अहोरात्राणि = 1 मन्थ
1 वर्षम् = 12 मासाः =
1 ईयर
अयं हि स्थूलः (व्यावहारिकः)
व्यवहारयोग्यकालः कथितः। कालगणनायां नाडी-
घटी- दण्डेत्यादयः तुल्यार्थबोधकाः। तत्र केवलं यन्त्रभेदेनैव नामभेदः जायते। यथा
चात्र-
(अ) नाडी -
अङ्गुष्ठमूलगतकफादिप्रदर्शिन्या अवगतकालः नाडीसंज्ञकः।
(ब) घटी -
घटीयन्त्रेण (घट्या) मापितो कालः घटीसंज्ञकः।
(स) दण्डः -
दण्डाख्ययन्त्रेण (दण्डेन) मापितो कालः दण्ड इति।
अत्र ‘वि’ उपसर्गयोजनेन तत्ष्ट्यंशस्य बोधः जायते। यथा -विनाडी
= विघटी =
इति।
2. त्रुट्यादिकालः -
प्राणादिकालात्
(मूर्तकालात्) व्यवहारादेः सिद्धिर्जायते। तर्हि कथं पुनः सूक्ष्मस्य
त्रुट्याद्यमूर्तकालस्य आवश्यकतेति सन्देहावसरः स्यात्। अत्र एतदपि ध्यातव्यं यत्
योऽयममूर्तोऽतिसूक्ष्मकालो विद्यते तस्य परित्यागेऽपि तत्काले न किमप्यन्तरं
दृश्यते न तु तस्य त्यागेन किमपि दोषमामनन्ति मनीषिणः। परञ्च तदेव
सूक्ष्मकालात्मकमन्तरं बहुभिः वर्षैरनन्तरं ग्रहादीनां गतिस्थित्यादीनां
अन्तरोत्पादको भवतीति कारणेन तद्दोषपरिहारार्थमेव अमूर्तस्यापि (त्रुट्यादिकालस्यापि)
आवश्यकतानुभूयते शास्त्रज्ञैः। तत्रादौ का नाम त्रुटिरित्यत्र भास्करः
-
योऽक्ष्णोर्निमेषस्य
खरामभागः स तत्परस्तच्छतभाग उक्ता ।
त्रुटिर्निमेषर्धृतिभिश्च
काष्ठा तत्त्रिंशता सद्गणकैः कलोक्ता ।।12
तन्मतेन त्रुटिर्हि
नेत्रपक्ष्मद्वयसंयोगकालस्य सहस्रत्रयतमभागतुल्या। एवञ्चात्र नारदोक्तं वचनमपि प्रासङ्गिकम्
-
सूच्या भिन्ने पद्मपत्रे त्रुटिरित्यभिधीयते ।
तत्षष्ट्या
रेणुरित्युक्तो रेणुषष्ट्या लवः स्मृतः ।
तत्षष्ट्या लीक्षकं
प्रोक्तं तत्षष्ट्या प्राण उच्यते ।।13
इयं परिभाषा
ज्योतिर्जगति प्रमाणरूपेण स्वीक्रियते। त्रुटिकालस्यातीवसूक्ष्मत्वात्
व्यवहारादिषु प्रयोगः नैव दृश्यते किन्तु महता कालेन स एव कालः व्यावहारिको
जायते। तदा अनेन सूक्ष्मकालेन महती गणना क्रियते। अस्य च प्राक्पाश्चात्यकालयोः
तुलनात्मकदृष्टिः वर्ण्यते-
भारतीयकालः पाश्चात्यकालः
1 त्रुटिः = सूच्या
पद्मपत्रभेदनकालः =
सेकेण्ड
1 रेणुः = 60 त्रुटयः =
सेकेण्ड
1 लवः = 60 रेणवः =
सेकेण्ड
1 लीक्षकम् = 60 लवाः =
सेकेण्ड
1 प्राणः = 60 लीक्षकाणि = 10
दीर्घाक्षरोच्चारणकालः = 4 सेकेण्ड
इत्यनया रीत्या
प्राच्यर्वाचीनकालयोः गणनया तयोः पारस्परिकसम्बन्धः स्पष्टरूपेण ज्ञातुं शक्यते। ज्योतिश्शास्त्रोक्तः कालगणनासिद्धान्तः
पाश्चात्यकालगणनासिद्धान्तस्यापेक्षया सूक्ष्मः स्पष्टश्च विद्यते ।
3. नव्यमतेनसाम्यम् -
यदि
उपरोक्तकालविवेचनं पूर्णतया वर्तमानकालगणनया तुल्यते चेत्
नेत्रपक्ष्मपात एव दशगुर्वक्षरोचारणकालः निमेषः वा असुरिति कथितः । यदि
निमेषकालात् गणनारम्भो क्रियते तर्हि प्राच्यर्वाचीनकालयोः तुलनात्मकमध्ययनमधोलिखितरीत्या
कर्तुं शक्यते । यथा -
18 निमेष = 1 काष्ठा
30 काष्ठा = 1 कला
30 कला = 1 नाक्षत्रीय घटिका।
2 घटी =
1 क्षणः (मुहूर्त्तः)
30 क्षणः = 1 दिनम्
अथवा
6 असु =
1 पलम्
60 पलानि = 1 घटिका
60 घटिका = 1 दिनम्
21600 असु = 1 दिनम् (1 असु = 45 निमेषा इत्यर्थः)
एवञ्च
60 सेकेण्ड = 1 मिनिट
60 मिनिट = 1 घण्टा
24 घण्टा = 1 दिनम्
तर्हि 1 अहर्निश = 60 घटिकाः
अत्र
द्वादशराशीनामुदयोऽपि कालेऽस्मिन्नेव जायते। अत्रैकराश्युदयमानं स्वल्पान्तरात् 5 घटिकात्मकं स्यात्।
अर्थात्
घटिका = 2 घण्टा। राशेः
अर्धं होरा इति प्रसिद्धमतः 12 राशयः = 24 होराः। अतः 60 घटिकात्मकं नाक्षत्रमानं 24 होरा
(प्राच्यमानेन) एवञ्च 24 घण्टा (नव्यमानेन) इत्यनेन तुल्यं भवति। अतः 24 होरात्मकेन कालेन
एकमहोरात्रं (24 होरा = 1 अहोरात्रम्) इति
नव्यकल्पनानुकूलमेव।
यथा
24
Hours = 1 Day.
अतः - 21600 असवः = 86400
सेकण्डमितमानेनाहोरात्रं सिद्धम्
तर्हि
= 4 सेकेण्ड = 1 असुः इति सिद्धम्
अतः 1मिनिटात्मके काले
एकस्य स्वस्थपुरुषस्य
पञ्चदशसंख्याकाः श्वासाः चलन्तीति सूचितम् ।
ज्योतिश्शास्त्रेषु कालगणनारम्भः त्रुट्यादित एव क्रियते।
यथाह च शिरोमणौ त्रुट्यादिप्रलयान्तकालकलनामानप्रभेदः
क्रमात्14 इति
भास्करवचनेन परिज्ञायते यज्ज्योतिर्गणितेन त्रुटिकालात् (सूक्ष्मकालात्) प्रलयान्तं
यावत् गणना क्रियते स्म।
3. स्थूलकालगणना –
स्थूलकालगणनायाः
प्रारम्भः
पूर्वोक्तप्रकारेण प्राणादिकालाज्जायते। तत्र सावनमासादग्रे
चान्द्रसौरमासकथनपूर्वकं दिव्यदिनव्यवस्थायाः कल्पना ज्योतिश्शास्त्रे
विद्यते। तदनुसारेण “ऐन्दवस्थिथिभिस्तद्वत्
संक्रान्त्या सौर उच्यते। मासैर्द्वादशभिर्वर्षं
दिव्यं तदह उच्यते”15 ऽतिक्षणानुसारेण शुक्लपक्षीयप्रतिपदमारभ्य
दर्शान्तावधिकाभिः त्रिंशत्संख्यकाभिः चान्द्रमासो भवति। अत्र भास्कराचार्यः “रवीन्द्वोर्युतेः संयुतिर्यावदन्या विधोर्मास ......।16 इत्यनेन तिथेः स्वरूपं प्रतिपादयामास।
तन्मतेन तिथिर्नाम रविचन्द्रयो अन्तरांशाः। यदा प्रतिपदातिथिः भवति तदा
रविचन्द्रयोः अन्तरांशाः द्वादशभागात्मकाः भवन्ति। यथा17-
तिथिः रविचन्द्रयोरन्तरांशाः
1 प्रतिपत् 12°
2 द्वितीया 24°
3 तृतीया 36°
4 चतुर्थी 48°
5 पञ्चमी 60°
6 षष्ठी 72°
7 सप्तमी 84°
8 अष्टमी 96°
9 नवमी 108°
10 दशमी 120°
11 एकादशी 132°
12 द्वादशी 144°
13 त्रयोदशी 156°
14 चतुर्दशी 168°
14 पूर्णिमा 180°
इत्यनया रीत्या यदा अंशान्तरमिदं वर्धितः
सन् 190° यावद्भवति
तदा कृष्णपक्षस्य प्रतिपदा तिथिर्भवति। एवं हि कृष्णपक्षस्य अष्टम्यां रविचन्द्रयोरन्तरांशान्तरं
276° भवति । यदा 360° भागान्तरांशाः
जायन्ते तदा अमान्तकालः ज्ञेयः। अनया रीत्या रविचन्द्रयोः
भागान्तरांशानामभिज्ञानेन तिथेः ज्ञानं जायते। इदमन्तरं
स्पष्टान्तरं नास्तीत्यवधेयम्। दैनन्दिनगतिभेदात्तदन्तरं भिद्यते। अमावास्यान्तमारभ्यामावस्यान्तपर्यन्तमेकोचान्द्रो
मासो विहितः। अत्र चान्द्रमासनिर्णये अन्यैराचार्यै भावान्तरेणैषक्रमः स्वीकृतः।
सिद्धान्ततत्त्वविवेके कमलाकरभट्टेन “अमान्तादमान्तं तु यावत्स
चान्द्रो”18
इत्युक्तम्। आर्यभटोऽपि ‘‘रविशशियोगाः भवन्ति शशिमासाः’’19 इति कथयति। एवञ्च
रविमासः सौरमासेति कथ्यते। तच्च प्रतिदिनं रवेरेकांशभोगेन त्रिंशदंशतुल्यं यदा
भवति तदैकराशिभोगादेको सौरमासः। यदा सूर्यः एकराशिं भुक्त्वाऽन्यराशिं
प्रविशति तावान्कालः सौरः। यतोऽहि एकराशिभोगादन्यराशिप्रवेशः सङ्क्रान्तिः।
रविस्तु प्रतिदिनं एकांशभोगं करोति । यदा 30° भोगः संभवति तदा एको
सौरमासः । एवं हि यदा 12 राशिसञ्चरणं सम्पद्यते तदा 12 मासाः जायन्ते ।
एतदेव वर्षसंज्ञकम् । एतत्तु सौरवर्षमिति कथ्यते । एतदेव सौर वर्षं दिव्यं देवानां
(ध्रुवाधोवर्तिनाम्) एकं दिनम्
अहोरात्रं वा भवति। यथा-
30 चान्द्रतिथयः = 1
चान्द्रमासः (सौरसंक्रान्तिवशात् सौरमासः)
12 सौरमासाः = 1 सौरवर्षम् (360 सौरदिनानि)
1 सौरवर्षम् = 1 दिव्यदिनम्
4. देवासुराणां
दिनरात्रिव्यवस्था -
एकसौरवर्षतुल्यं देवासुराणामहोरात्रमानं
भवति। किन्तु ध्रुवस्थानयोः याम्योत्तरस्थितत्वात् तयोः मानमिदं
विपर्ययेण सम्पद्यते। यथा च सूर्यसिद्धान्ते –
सुरासुराणामन्योन्यमहोरात्रं विपर्ययात् । तत्षष्टिः
षड्गुणा दिव्यं वर्षमासुरमेव च।।20
खगोलीयदृष्ट्या उत्तरध्रुवस्थानाधोवर्त्तिनां
सुराणां दक्षिणध्रुवस्थानाधोवर्त्तिनामसुराणां च परस्परं
व्यत्यासेन अहोरात्रं संभवति। यद्देवानां
दिनं सा दैत्यानां रजनी, या च देवानां रजनी तदसुराणां दिनमित्यर्थः। अतः
6 मासानां तेषां
दिनं 6 मासात्मिका च
रात्रिर्भवति । भास्करीयं मतमपि21 एतदनुगुणमेव।
देवानामसुराणां वा एकं वर्षं तेषां 360 दिव्यदिनात्मकं भवति। अर्थात् 360 मानुषसौरवर्षैरेकं
दिव्यमासुरवर्षं भवति(360 मानुषसौ.व. = 1दिव्यासुरवर्षम्)।
5. महायुगमानम् –
देवासुराणां दिनमानप्रमाणेन तेषां वर्षगणना
क्रियते। तेन महायुगानां गणना
संभवति-तद्द्वादशसहस्राणि
चतुर्युगमुदाहृतम्। सूर्याब्दसङ्ख्यया द्वित्रिसागरैरयुताहतैः।।22 यदा दिव्यासुरवर्षाणां संख्या
द्वादशसहस्रात्मिका (12000) भवति तदा कृतत्रेताद्वापरकलिसंज्ञकानां चतुर्णां
युगानामेकः समाहारः महायुगसंज्ञकः सम्पूर्त्तिमेति। मानुषवर्षगणनया सः कालः 43,20,000 सौरवर्षात्मकः
कथितः ।23 अर्थात् –
12000 दिव्यवर्षाणि = 1 महायुगम्
1 महायुगम् = 1 चतुर्युगी (कृत+त्रेता+द्वापर+कलियुगानां समाहारः)
1 चतुर्युगी (महायुगम्) = 43,20,000 सौरवर्षाणि
तत्कथमितिचेत् यदि 360 सौरवर्षैः एकं दिव्यवर्षं
तर्हि 12000 दिव्यवर्षाणां
सौरवर्षाणि = 12000 x 360
= 43,20,000
सौरवर्षाणि = एकं महायुगमानं भवति ।
6. युगप्रमाणम्
-
प्रत्येकस्यापि युगस्य पृथक् पृथक् वर्षप्रमाणं
ज्ञातुं युक्तिर्दत्ता। तदनुसारेण युगस्य दशमो भागश्चतुस्त्रिद्वेकसङ्गुणः। क्रमात्
कृतयुगादीनां षष्ठांशः सन्ध्ययोः स्वकः।।24 धर्मपादव्यवस्थारीत्या
प्रत्येकस्यापि युगस्य प्रमाणं स्पष्टतः ज्ञातुं शक्यते।
12000 दिव्यवर्षात्मकस्य महायुगस्य दशमांशः क्रमात् पृथक् पृथक् चतुर्भिः, त्रिभिः, द्वाभ्याम्, एकेन च गुणितस्तदा
क्रमेण कृत-त्रेता-द्वापर-कलियुगानां मानानि
भवन्ति । यथा –
12000 ÷ 10 × 4 =
4800 (दिव्यवर्षाणि) =
1728000 सौरवर्षाणि = कृतयुगम्
12000 ÷ 10 × 3 =
3600 (दिव्यवर्षाणि) =
1296000 सौरवर्षाणि = त्रेतायुगम्
12000 ÷ 10 × 2 =
2400 (दिव्यवर्षाणि) =
864000 सौरवर्षाणि = द्वापरयुगम्
12000 ÷ 10 × 1 =
1200 (दिव्यवर्षाणि) =
432000 सौरवर्षाणि = कलियुगम्
अतः 4800+3600+2400+1200 =12000 दिव्यवर्षाणि
= 1728000 +1296000 +864000+432000 = 4320000 सौरवर्षाणि एकं
महायुगमानं सिद्ध्यति। उपर्युक्तानि युगानां प्रमाणानि सन्ध्यासन्ध्यांशमानसहितानि।
युगस्य षष्ठांशः तस्य सन्ध्याप्रमाणं भवति अतः –
4800
÷ 6 = 800 दिव्यवर्षाणि = 288000 सौरवर्षाणि = कृतसन्ध्याप्रमाणम्
3600 ÷ 6 = 600 दिव्यवर्षाणि = 216000 सौरवर्षाणि = त्रेतासन्ध्याप्रमाणम्
2400 ÷ 6 = 400 दिव्यवर्षाणि = 144000 सौरवर्षाणि = द्वापरसन्ध्याप्रमाणम्
1200 ÷ 6 = 200 दिव्यवर्षाणि = 72000 सौरवर्षाणि = कलिसन्ध्याप्रमाणम्
प्रत्येकयुगस्य सन्ध्याप्रमाणस्यार्द्धभागः
युगादौ अर्द्धभागश्च युगान्ते युगसन्ध्या भवति।
7. मन्वन्तरव्यवस्थाप्रमाणम् -
पूर्वोक्तानां महायुगानां
गणनया यदा एकसप्ततिः (71)
महायुगानि प्रभवन्ति तदा सः कालः एको मनुः। अत्रापि आर्षप्रमाणम् -
युगानां
सप्ततिः सैका मन्वन्तरमिहोच्यते ।
कृताब्दसङ्ख्यस्तस्यान्ते
सन्धिः प्रोक्तो जलप्लवः।।25
अस्मिन् व्यावहारिककाले एकस्य मनोराविर्भावकालादन्यमनोराविर्भावकालपर्यन्तं
एकं मन्वन्तरं भवति। अर्थात् –
12000 दिव्यवर्षाणि = 4320000 सौरवर्षाणि =
1 महायुगम्
71 महायुगानि = 1 मनुः = 852000 दिव्यवर्षाणि
= 306720000 सौरवर्षाणि
एकस्य मनोरवसानकालादन्यमनोराविर्भावयोर्मध्ये
कृतयुगस्य वर्षसङ्ख्यातुल्यं मनोः सन्धिकालः भवति। मनुसन्धिकालं
यावत् सम्पूर्णा पृथिवी जलेन परिपूर्णा भवति। अर्थादयं
मनुसन्धिकालः प्रलयकालः कथितः।
स च कालः 4800 दिव्यवर्षात्मकः 1728000 सौरवर्षात्मकः भवति। धर्मशास्त्रेषु
मनूनां सङ्ख्या चतुर्दश एव कथिता । ते च क्रमशः 1.स्वायम्भुवः, 2.स्वारोचिषः, 3.उत्तमजः, 4.तामसः, 5.रैवतः, 6.चाक्षुषः, 7.वैवस्वतः, 8.सावर्णिः, 9.दक्षसावर्णिः, 10.ब्रह्मसावर्णिः, 11.धर्मसावर्णिः, 12.रुद्रसावर्णिः, 13.देवसावर्णिः, 14.इन्द्रसावर्णिः। वर्तमाने भारतीयकालगणनानुसारेण सप्तमो
वैवस्वतमनुः प्रचलति ।
8. कल्पप्रमाणम् -
एकस्मिन् कल्पे
मन्वन्तरगणनया स्वस्वसन्धिसहिताः 71 महायुगात्मकाः मनवः चतुर्दशसङ्ख्यकाः
भवन्ति। सन्धिसहिताः तचुर्दशमनवः कल्पसंज्ञकाः। ससन्धयस्ते मनवः
कल्पे ज्ञेयाश्चतुर्दश। कृतप्रमाणः कल्पादौ सन्धिः
पञ्चदशः स्मृतः।।26 अर्थात् सन्धिसहिताः
चतुर्दशमनवः एककल्पे भवन्ति। तदनुसारेण –
71 महायुगानि = 1 मनुः
14 मनवः + 15 मनुसन्धयः = 1 कल्पः
1 महायुगम् = 12000 दिव्यवर्षाणि = 4320000
सौरवर्षाणि
1 मनुः= 71महायुगानि = 71 x 12000 =
852000 दिव्यवर्षाणि = (306720000 सौरवर्षाणि)
1 कल्पः = 14 मनवः + 15 सन्धयः
= (14 x 852000) + (15 x 4800)
= (1192800) + (72000) = 12000000 दिव्यवर्षाणि
= 12000000 X 360 = 4320000000
सौरवर्षाणि
भारतीयकालगणनायां
कल्पानां सङ्ख्या 30 कथिता। ते च क्रमशः
1.श्वेतकल्पः, 2.नीललोहितः, 3.वामदेवः, 4.राथन्तरः, 5.रौरवः, 6.प्राणः, 7.बृहत्, 8.कन्दर्पः, 9.सद्यः, 10.ईशानः, 11.ध्वजः, 12.सारस्वतः, 13.उदानः, 14.गरुडः, 15.कूर्मः, 16.नारसिंहः, 17.समाधिः, 18.आग्नेयः, 19.सोमकल्पः, 20.भावनः, 21.सुप्तमाली, 22.वैकुण्ठः, 23.अर्चिषः, 24.रुद्रः, 25.लक्ष्मीः, 26.वैराजः, 27.गौरी, 28.अन्धकः, 29.माहेश्वरः, 30.पितृकल्पेत्यनेन
प्रकारेण कल्पानां व्यवस्था विद्यते । तत्र च वर्तमाने प्रथमः श्वेतकल्पः
प्रचलति।
9. ब्राह्मदिवसप्रमाणम्
–
ब्राह्मदिवसानयनं (ब्राह्मायुप्रमाणानयनम्) कल्पगणनया
क्रियते।
71महायुगैः 1मन्वन्तरं 14 मनुभिः
1कल्पः (1ब्राह्मदिनम्) सम्भवति। ब्राह्मदिवसगणनार्थं कथितं यत् कल्पगणनाप्रमाणेन
सहस्रसङ्ख्यमहायुगैः सकलभुवनभूतानां
चराचरजीवानां संहारकः
कल्पः प्रभवति। यथा इत्थं युगसहस्रेण भूतसंहारकारकः। कल्पो
ब्राह्ममहः प्रोक्तं शर्वरी तस्य तावती ।।27
एकः कल्पः ब्रह्मणः एकं दिनं भवति तावती एव
प्रमाणात्मिका तस्यैका रात्रिर्भवति। अतः
कल्पद्वयं यावत् ब्रह्मण एकमहोरात्रमुक्तम्। श्रीमद्भगवद्गीतायामपि
सहस्रयुगपर्यन्तमहर्यद्
ब्रह्मणो विदुः। रात्रिं युगसहस्रान्तां
तेऽहोरात्रविदो जनाः।।28 इति ब्रह्मणः दिनकल्पारम्भे भूतानामाविर्भावः
तथा च दिनकल्पावसाने रात्रिकल्पारम्भे भूतानां तिरोभावः (संहारः) प्रभवति।
एतद्विषयेऽपि तत्रैव अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे। रात्र्यागमे
प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके।। इत्यनया रीत्या गणिते सति भारतीयकालगणनासिद्धान्तस्य प्रामाणिकतायाः
सिद्धर्भवति। वस्तुतः सिद्धान्तशिरोमणावपि भास्कराचर्योऽपि
ऐतदेव प्रमाणं प्रयच्छति।29 आर्यभटोऽपि
कल्पप्रमाणनिर्णये ब्राह्मदिवसमुपदिदेश।30 सूर्यसिद्धान्तमतेन
ब्रह्मण वयःप्रमाणम् परमायुः शतं तस्य तयाऽहोरात्रसङ्ख्यया। आयुषोऽर्धमितं तस्य
शेषकल्पोऽयमादिमः।।31 एतदनुसारेण
पूर्वोक्तकल्पद्वयात्मकाहोरात्रगणनाप्रमाणेन शतवर्षाणि यावत् ब्रह्मणः परमायुः प्रमाणं विद्यते। यथा
–
2 कल्पौ = 1 ब्राह्मम् अहोरात्रम्
60 कल्पाः = 1 ब्राह्ममासः
720 कल्पाः = 1 ब्राह्मवर्षम्
100 ब्राह्मवर्षाणि = 1 ब्रह्मायुः
1 ब्रह्मायुप्रमाणस्य परायुरिति संज्ञा भवति। वर्त्तमाने ब्रह्मवयसि 50
ब्रह्मवर्षाण्यतीतानि तदेव
परार्द्धसंज्ञकम्। ब्रह्मायु्प्रमाणविषये विष्णुपुराणोक्तवचनमपि दृष्टव्यम्
निजेनैव तु मानेन कायुर्वर्षशतं स्मृतम्। तत्पराख्यं
तदर्धं तु परार्धमभिधीयते” तस्य
शतवर्षाणामायुः परायुः कथ्यते । तस्येदानीं पञ्चाशद्वर्षात्मिका आयुर्गता सा च
परार्द्धसंज्ञका । वर्त्तमाने द्वितीयपरार्द्धे अयं प्रथमः कल्पः
प्रचलति।
10. वर्तमानकाले
कल्पारम्भात् कालगणना -
भारतीयकालगणनासिद्धान्तेषु वर्तमान कल्पारम्भातः
अद्यावधि कतियुगानि दिनानि च कीयन्ति गतानि तेषां गणनाऽपि प्रतिपाद्यते तत्र च-
कल्पादस्माच्च
मनवः षड् व्यतीताः ससन्धयः।
वैवस्वतस्य च मनोर्युगानां त्रिघनो गतः॥
अष्टाविंशाद्युगादस्माद्यातमेतत् कृतं
युगम्।
अतः कालं प्रसङ्ख्याय सङ्ख्यामेकत्र पिण्डयेत्॥
ग्रहर्क्ष देव दैत्यादि सृजतोस्य चराचरम्।
कृताद्रिवेदा दिव्याब्दा: शतघ्ना वेधसो गता:॥32
ब्रह्मण आयुषः परार्द्धं गतम्। वर्तमाने
ब्रह्मण आयो: द्वितीयपरार्द्धे
कल्पारम्भात् अस्मिन् श्वेतकल्पे वैवस्वतमन्वन्तरस्य अष्टाविंशतितमः कलियुगः
प्रचलति । अर्थात् वर्तमानकलियुगारम्भात्पूर्वं सप्तविंशतिः महायुगानि गतानि।
तथा च ग्रह-नक्षत्र-देव-दानव-भू-भूधरादीनां चराचराणां रचनां कुर्वता ब्रह्मणः
कल्पादितः 47400 दिव्यवर्षाणि विगतानि। अतः कल्पारम्भात् 47400 दिव्यवर्षानन्तरं
सृष्ट्यारम्भो भवति । यथा –
6
मनवः+7
सन्धयः+27 महायुगानि+कृत+त्रेता+द्वापर+कलिगतवर्षाणि=कल्पादितः गतकालः
1 मनुः = 852000 दिव्यवर्षाणि (306720000
सौरवर्षाणि),
47400 दिव्यवर्षाणि(कल्पारम्भात्
सृष्ट्यारम्भपर्यन्तं गतदिव्यवर्षाणि) = 17064000 सौरवर्षाणि
अतः -
मनवः 6x 852000 = 5112000
दिव्यवर्षाणि
सन्धयः 7x 4800 = 33600
महायुगानि 27 x 12000 = 324000
कृतयुगम् 4800
= 4800
त्रेतायुगम्
3600 = 3600
योगः = 54804000दिव्यवर्षाणि
(कल्पादितः
कलियुगारम्भपर्यन्तम्)
= 1972944000+5116= 1972949116 सौरवर्षाणि (कल्पादितः वर्तमानकालपर्यन्तम्)
1972949116-17064000 = 1955885116 सृष्ट्यादितः
वर्तमानपर्यन्तम् गतवर्षाणि।
उपर्युक्तगणनारीत्या ज्योतिश्शास्त्रोक्तानां
प्राचीनभारतीयकालगणनासिद्धान्तानां वैज्ञानिकदृष्ट्या
कृताध्ययनेन वर्तमानकालिकसृष्टेः
प्रवर्तनकालः ज्ञातुं शक्यते। भारतीयकालगणनासिद्धान्तेषु सूक्ष्मकालादाराभ्य
ब्रह्मायुपर्यन्तं या गणनारीतिः प्रतिपादिता सा नितरां वैज्ञानिकी भाति। पाश्चात्यमतेनापि
तस्य साम्यं दृश्यते।
ज्योतिश्शास्त्रे न केवलम्
उपर्युक्तकालमानस्य विवेचनं विद्यते अपितु तत्र स्वतन्त्ररूपेण नवविधकालमानानां वर्णनं कृतम्। कालगणनायाः
सिद्धान्तोऽयं शास्त्रोक्तरीत्याऽर्षप्रमाणत्वाच्च प्रतिपादितः। अस्य
भारतीयकालगणनासिद्धान्तस्य सन्ति अन्यान्यपि बिन्दूनि येषां चिन्तनस्य अनुसन्धानस्य
च महती आवश्यकता विद्यते ।
।। इति शम् ।।
Ø
सन्दर्भसूची
1.
सूर्यसिद्धान्त /म.अ. - 10
2.
श्रीमद्भगवद्गीता – 11.32
3.
सू.सि./ म.अ- (का.अ.) - 11
4.
तत्रैव - 12
5.
भूतानामन्तकृत्कालः कालोऽन्यः कलनात्मकः। द्विधा
स्थूलसूक्ष्मत्वात् मूर्त्तश्चामूर्त्तसंज्ञकः।।
(सि.त.वि./म.अ-(मा.अ.)-14)
6. सि.शि./म.अ- (का.अ.) -
17
7. द्युरात्रवृत्ते
तच्चक्रकला एवासवः स्मृताः। (सि.त.वि./
म.अ-(मा.अ.)-15)
8. गुर्वक्षराणि
षष्टिर्विनाडिकार्क्षी, षडेव वा प्राणाः। (आर्यभटीयम्/ का.पा. -2)
9. खेन्दुगुर्वक्षरोच्चारश्वासकालो
ह्यसुश्च तैः। पलं
षड्भिः खषड्भिस्तैर्घटी तत्षष्टिसंख्यया । ।
दिनं तत्त्रिंशता मासो वर्षं द्वादशभिश्च तैः। इत्थं नाक्षत्रमानं स्यात्प्रवहानिलजभ्रमात् । ।
(सि.त.वि.,म.अ.(मा.अ.)-16-17)
10. भास्कराचार्य/ सि.शि./ म.अ. - (मा.अ.) - 14
11. नारदपुराणे
12. सि.शि./ म.अ.- (मा.अ.) -6
13. सूर्यसिद्धान्त/ म.अ- (का.अ.)-13
14. भास्कराचार्य/
सि.शि./
म.अ-
(का.अ.)-19
15. अन्तरं
तरणिचन्द्रचक्रणं यद्भवेत् स विधुमाससंचयः । (सि.शि./(म.अ.)-13)
16. सि.त.वि./ म.अ- (का.अ.)-23
17. आर्यभटीयम्/
कालक्रियापाद
- 5
18. सू.सि.(म.अ.) - 14
19. सिद्धान्तशिरोमणि/ म.अ - (का.अ.)-19
20. सू.सि./ (म.अ.)
- 15
21. तद्द्वादशसहस्राणि
चतुर्युगमुदाहृतम्। सूर्याब्दसंङ्ख्या
द्वित्रिसागरैररयुताहतैः।(सू.सि./(म.अ.)-15)
22. सू.सि./ ( म.अ.) -18
23. सू.सि./म.अ.-18
24. सू.सि./ (म.अ.) – 19
25. सू.सि. / (म.अ.) – 20
26. भ.गी. 8 - 17
27. स्याद्युगानां
सहस्रं दिनं वेधसः सोऽविकल्पो द्युरात्रं तु कल्पद्वयम् । (सि.शि./ म.अ.- (का.अ.)-24)
28. दिव्यं
वर्षसहस्रं ग्रहसामान्यं युगं द्विषट्कगुणम्।अष्टोत्तरं सहस्रं ब्राह्मो दिवसो
ग्रहयुगानाम् ।
(आ.भ. (का.पा.)-8)
29. सू.सि./(म.अ.)-21
30. सू.सि./(म.अ.) – 22, 23
*****